संस्कृत कथा story in Sanskrit
बोधनम्
कश्चन गुरु: गुरुकुलं चालयति स्म । विविधप्रदेशीया: तरुणा: तत्र अध्ययनं कुर्वन्ति स्म । तेषु राजकुमारा: अपि अन्यतमा: आसन् ।
कदाचित् शिष्यै: सह गमनावसरे गुरो: हस्तात् दण्ड: अकस्मात् अपतत् । तदा तस्य पार्श्वे एव स्थित: मगधराजकुमार: अवनम्य दण्डं स्वीकृत्य गुरवे अयच्छत् । गुरु: तु तेनैव दण्डेन तं सबलं प्राहरत् । ‘किमर्थं गुरुवर्य: माम् एवं प्रहरति विना कारणम् ?’ इति चिन्तयन् स: राजकुमार: गुरो: मुखम् अपश्यत् । तावता द्वितीय: प्रहार: तेन प्राप्त: । महती वेदना अनुभूता तेन । यत्र प्रहार: प्राप्त: तत: रक्तम् अपि निर्गतम् ।
वेदनाम् अनुभवन् एव राजकुमार: अपृच्छत् - ‘‘गुरुवर्य ! क: अपराध: कृत: मया ? किमर्थम् एवं मम दण्डनं क्रियते ?’’ इति ।
तदा गुरु: गाम्भीर्येण अवदत् - ‘‘कालान्तरे स्वयं ज्ञास्यते त्वया सर्वम् अपि’’ इति ।
राजकुमारेण पुन: प्रश्न: न कृत: । एवमेव वर्षाणि गतानि । स: राजकुमार: मगधसिंहासनम् आरूढवान् । कदाचित् तं द्रष्टुं गुरु: तदीयम् आस्थानम् आगतवान् । राजा तं नमस्कृत्य आसने उपवेश्य यथोचितं सत्कृत्य अपृच्छत् - ‘‘गुरुवर्य ! अहं किमपि प्रष्टुम् अर्हेयं किम् ?’’ इति ।
‘‘पृच्छ्यतां कामम्’’ इति समन्दहासम् अवदत् गुरु: । तदा राजा अपृच्छत् - ‘‘यदा अहं गुरुकुले आसं तदा कदाचित् भवता मम प्रहार: कृत: विना कारणम् । तत् किमर्थम् इति अद्यापि न ज्ञातं मया । किं तत् विवरीतुम् अर्हेत् भवान् ?’’ इति ।
तत् श्रुत्वा गुरु: हसन् अवदत् - ‘‘तस्मिन् दिने मया न प्रहृतम्, अपि तु बोधितम् । अकृतापराधा: यदि दण्ड्येरन् तर्हि तै: कीदृशी वेदना प्राप्येत इति मया ज्ञापनीयम् आसीत् । तदेव ज्ञापितं मया । त्वम् असि राजपदव्याम् । सम्यक् विचार्य एव त्वया दण्ड्या: दण्डनीया: । अकृतापराध: कोऽपि दण्डित: न भवेत् ।..’’
‘‘अवगतं मया भवत: आशय: । आजीवनं भवत: उपदेशस्य अनुगुणम् एव व्यवहरिष्यामि अहम्’’ इति विनयेन अवदत् राजा ।

Comments
Post a Comment