Sanskrit story

 नमो नमः 🙏


लघुकथा - 

कः दरिद्रः ?


एकः संन्यासी आसीत्। तस्य हस्ते सुवर्ण कङ्कणम् आसीत। एकदा  सः संन्यासी अघोषयत् यत् ‘परमद्ररिद्रस्य कृते एतत् दास्यामि ' इति l

घोषणं श्रुत्वा बहवः दरिद्राः तत्र आगताः। संन्यासी कस्मैचिदपि सुवर्णकङ्कणं न अददात्।

एकदा तेन मार्गेण राजा आगतः। संन्यासी तस्मै सुवर्णकङ्कणम् अददात्। ‘‘अहं राजा। मम विशालं राज्यम्, अपारम् ऐश्वर्यं च अस्ति। अहं दरिद्रः न। तथापि मह्यं किमर्थम् एतत् दत्तम्?’’ इति राजा अपृच्छत्।


‘राज्यं विस्तारणीयम्। सम्पत्तिः वर्धनीया इत्येवं भवतः बहव्यः आशाः। यस्य आशाः अधिकाः सः एव दरिद्रः। अतः मया भवते सुवर्णकङ्कणं दत्तम्’ इति अवदत् संन्यासी।

धन्यवादाः 🙏

Comments