संस्कृत कथा story in Sanskrit
योग्यं प्रशासनम्
एकदा संन्यासी कश्चन स्वशिष्यै: सह प्रस्थितवान् । प्रयाणावसरे ते सर्वे तत्त्वशास्त्रम् अधिकृत्य चर्चां कुर्वन्त: आसन् । चर्चायां मग्ना: ते अजानन्त: एव किञ्चन श्मशानं प्राविशन् ।
तत्र काचित् स्त्री उच्चै: रुदती संन्यासिना लक्षिता । ताम् उपसर्प्य संन्यासी पृष्टवान् - ‘‘आर्ये, किमर्थं रोदिति भवती ? का समस्या भवत्या: ?’’ इति ।
‘‘मम कष्टं किमिति वर्णयानि ? ह्य: एव मम पति:, श्वशुर:, श्वश्रू:, एकमात्रं पुत्र: च मृत्युवशीभूता: । भाग्यहीना अहम् एका एव जीवामि’’ इति रुदती एव अवदत् सा महिला ।
‘‘एतादृश्या: हीनस्थिते: कारणं किम् ?’’ - स: संन्यासी तां सान्त्वयन् अपृच्छत् ।
‘‘कश्चित् क्रूर: व्याघ्र: । तेन मम परिवारसदस्या:, अन्ये केचन ग्रामजना: च निष्ठुरतया भक्षिता:’’ - सा प्रत्यवदत् ।
तदा शिष्येषु कश्चन पृष्टवान् - ‘‘आर्ये ! स: क्रूर: व्याघ्र: अग्रे पुन: अपि ग्रामजनान् भक्षयेत् एव । एवं तर्हि किमर्थं भवन्त: एतं प्रदेशं परित्यज्य अन्यत् स्थानं न गच्छेयु: ? तस्मै नरभक्षकाय व्याघ्राय किमर्थं भवद्भि: आहारै: भाव्यम् ? ग्रामारण्यात् अनन्तरं स्थिते राज्ये वास: कर्तुं शक्य: ननु ?’’ इति ।
तदा सा अवदत् - ‘‘किमर्थं देशत्याग: चिन्त्येत मया मद्ग्रामवासिभि: च ? एतस्य प्रदेशस्य राजा सज्जन: धर्मिष्ठ: प्रजानुरागी च । प्रजानां सुखसमृद्ध्यर्थं बहुधा प्रयतते स: । देशे द्रोह:, वञ्चना, उत्कोच:, अन्याय्यं वा नैव दृश्यते । एतादृशे उत्तमे राजशासने सति वयम् अन्यत्र क्व वा गच्छेम ? एतां व्याघ्रसमस्याम् अपि यथाशीघ्रम् अस्मदीय: राजा परिहरेत्’’ इति ।
तत् श्रुत्वा संन्यासी शिष्यान् उद्दिश्य अवदत् - ‘‘ज्ञातं ननु - उत्तमस्य प्रशासनस्य परिणाम: क: इति ? यदि राजा, तदीया: अधिकारिण: च योग्या: न स्यु: तर्हि तेषाम् उपद्रव: क्रूरजन्तूनां पीडात: अपि अधिक: एव भवेत् । बहूनि कष्टानि आपतेयु: चेदपि, योग्ये प्रशासके सति जना: तानि प्रयत्नेन सहन्ते एव । तेनैव भूमि: च नन्दनवनायते’’ इति ।

Comments
Post a Comment