संस्कृत कथा story in Sanskrit

 योग्यं प्रशासनम्  



एकदा  संन्यासी कश्चन स्वशिष्यै: सह प्रस्थितवान् । प्रयाणावसरे ते सर्वे  तत्त्वशास्त्रम् अधिकृत्य चर्चां कुर्वन्त: आसन् । चर्चायां मग्ना: ते  अजानन्त: एव किञ्चन श्मशानं प्राविशन् ।


तत्र  काचित् स्त्री उच्चै: रुदती संन्यासिना लक्षिता । ताम् उपसर्प्य संन्यासी  पृष्टवान् - ‘‘आर्ये, किमर्थं रोदिति भवती ? का समस्या भवत्या: ?’’ इति ।


‘‘मम  कष्टं किमिति वर्णयानि ? ह्य: एव मम पति:, श्वशुर:, श्वश्रू:, एकमात्रं  पुत्र: च मृत्युवशीभूता: । भाग्यहीना अहम् एका एव जीवामि’’ इति रुदती एव अवदत् सा महिला ।


‘‘एतादृश्या: हीनस्थिते: कारणं किम् ?’’ - स: संन्यासी तां सान्त्वयन् अपृच्छत् ।

‘‘कश्चित् क्रूर: व्याघ्र: । तेन मम परिवारसदस्या:, अन्ये केचन ग्रामजना: च निष्ठुरतया भक्षिता:’’ - सा प्रत्यवदत् ।


तदा  शिष्येषु कश्चन पृष्टवान् - ‘‘आर्ये ! स: क्रूर: व्याघ्र: अग्रे पुन: अपि  ग्रामजनान् भक्षयेत् एव । एवं तर्हि किमर्थं भवन्त: एतं प्रदेशं परित्यज्य  अन्यत् स्थानं न गच्छेयु: ? तस्मै नरभक्षकाय व्याघ्राय किमर्थं भवद्भि:  आहारै: भाव्यम् ? ग्रामारण्यात् अनन्तरं स्थिते राज्ये वास: कर्तुं शक्य:  ननु ?’’ इति ।


तदा  सा अवदत् - ‘‘किमर्थं देशत्याग: चिन्त्येत मया मद्ग्रामवासिभि: च ? एतस्य  प्रदेशस्य राजा सज्जन: धर्मिष्ठ: प्रजानुरागी च । प्रजानां सुखसमृद्ध्यर्थं  बहुधा प्रयतते स: । देशे द्रोह:, वञ्चना, उत्कोच:, अन्याय्यं वा नैव  दृश्यते । एतादृशे उत्तमे राजशासने सति वयम् अन्यत्र क्व वा गच्छेम ? एतां  व्याघ्रसमस्याम् अपि यथाशीघ्रम् अस्मदीय: राजा परिहरेत्’’ इति ।


तत्  श्रुत्वा संन्यासी शिष्यान् उद्दिश्य अवदत् - ‘‘ज्ञातं ननु - उत्तमस्य  प्रशासनस्य परिणाम: क: इति ? यदि राजा, तदीया: अधिकारिण: च योग्या: न स्यु:  तर्हि तेषाम् उपद्रव: क्रूरजन्तूनां पीडात: अपि अधिक: एव भवेत् । बहूनि  कष्टानि आपतेयु: चेदपि, योग्ये प्रशासके सति जना: तानि प्रयत्नेन सहन्ते एव  । तेनैव भूमि: च नन्दनवनायते’’ इति ।

Comments

Popular posts from this blog

Sanskrit joke

100 Sanskrit verbs क्रियापदानि ।